वांछित मन्त्र चुनें

अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिर॒: स्रुच॒श्चर॑न्त्यध्व॒रे । ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥

अंग्रेज़ी लिप्यंतरण

acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare | ūrjo napātaṁ ghṛtakeśam īmahe gniṁ yajñeṣu pūrvyam ||

पद पाठ

अच्छ॑ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ङ्गि॒रः॒ । स्रुचः॑ । चर॑न्ति । अ॒ध्व॒रे । ऊ॒र्जः । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥ ८.६०.२

ऋग्वेद » मण्डल:8» सूक्त:60» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:32» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:2